पूर्वम्: ३।३।७२
अनन्तरम्: ३।३।७४
सूत्रम्
आङि युद्धे॥
३।३।७३
काशिका-वृत्तिः
आङि युद्धे
३।३।७३
आङि उपपदे ह्वयतेर् धातोः सम्प्रसारणम् अप् प्रत्ययश्च भवति युद्धे ऽभिधेये। आहूयन्ते ऽस्मिनित्याहवः।
युद्धे इति किम्?
आह्वायः।
न्यासः
आङि युद्धे।
, ३।३।७३
"आह्वायः"इति। "आतो युक् चिण्कृतोः"
७।३।३३
इति युक्॥